|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.109. अध्यायः 109
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति ब्रह्मणा इन्द्रायोक्तगोविक्रयापहारफलानुवादः॥ 1 ॥ तथा सुवर्णस्य गोदाने दक्षिणात्वप्रशंसनानुवादः॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text

इन्द्र उवाच।
जान्यो गामपहरेद्विक्रीयाच्चार्थकारणात्।
एतद्विज्ञातुमिच्छामि कानु तस्य गतिर्भवेत्॥ 13-109-1(85785)
पितामह उवाच। 13-109-2x(7114)
भक्तार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते।
दानार्थं ब्राह्मणार्थाय तत्रेदं श्रूयतां फलम्॥ 13-109-2(85786)
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः।
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः॥ 13-109-3(85787)
घातकः खादको वाऽपि तथा यश्चानुमन्यते।
यावन्ति तस्या रोमाणि तावद्वर्षाणि मज्जति॥ 13-109-4(85788)
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके।
विक्रये चापहारे च ते दोषा वै स्मृता गवाम्॥ 13-109-5(85789)
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति।
यावद्दाने तु यो गां वै ब्राह्मणाय प्रयच्छति। 13-109-6(85790)
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते।
सुवर्णं परमित्युक्तं दक्षिणार्थमसंशयम्॥ 13-109-7(85791)
गोप्रदानात्तारयते सप्त पूर्वांस्तथाऽपरान्।
सुवर्णं दक्षिणां कृत्वा तावद्द्विगुणमुच्यते॥ 13-109-8(85792)
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा।
सुवर्णं पावनं शक्र पावनानां परं स्मृतम्॥ 13-109-9(85793)
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो।
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते॥ 13-109-10(85794)
भीष्म उवाच। 13-109-11x(7115)
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ।
इन्द्रो दशरथायाह रामायाह पिता तथा॥ 13-109-11(85795)
राघवोपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने।
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो॥ 13-109-12(85796)
पारम्पर्यागतं चेदमृषयः संशितव्रताः।
दुर्धरं दारयामासू राजानश्चैव धार्मिकाः॥ 13-109-13(85797)
उपाध्यायेन गदितं मम चेदं युधिष्ठिर॥ 13-109-14(85798)
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि।
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे॥ 13-109-15(85799)
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा।
इति ब्रह्मा स भगवानुवाच परमेश्वरः॥ ॥ 13-109-16(85800)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवाधिकशततमोऽध्यायः॥ 109 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-109-3 विक्रयार्थं यो नियुङ्क्ते इति शेषः॥ 7-109-10 सुवर्णं प्राहुरित्यज्ञाजातरूपमिति ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|